|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.10. अध्यायः 010
Mahabharata - Bhishma Parva - Chapter Topics
चतुर्युगवर्णनम् ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-10-0x(3976)(39010)
भारतस्यास्य वर्षस्य तथा हैमवतस्य च।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥ 6-10-1(39011)
अनागतमतिक्रान्तं वर्तमानं च संजय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ 6-10-2(39012)
संजय उवाच। 6-10-3x(3977)
चत्वारि भारते वर्षे युगानि भरतर्षभ।
कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ 6-10-3(39013)
पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो ।
संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ॥ 6-10-4(39014)
चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम।
आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥ 6-10-5(39015)
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ 6-10-6(39016)
न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ 6-10-7(39017)
महाबला महासत्वाः प्रज्ञागुणसमन्विताः।
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ 6-10-8(39018)
जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः ।
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥ 6-10-9(39019)
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः।
प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ॥ 6-10-10(39020)
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः।
त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ॥ 6-10-11(39021)
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे ।
महोत्साहा वीर्यवन्तः परस्परजयैषिणः ॥ 6-10-12(39022)
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप।
लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ॥ 6-10-13(39023)
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च।
तिष्ये भवति भूतानां रागो लोभश्च भारत ॥ 6-10-14(39024)
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ ॥ 6-10-15(39025)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-10-3 तिष्यं कलियुगम् ॥ 6-10-8 प्रजायन्ते प्रजां जनयन्ति ॥ 6-10-10 वपुष्मन्तः प्रशस्तदेहाः ॥ 6-10-12 सर्वे वर्णाः परस्परजयैषिणो जायन्त इति संबन्धः ॥ 6-10-14 ईर्ष्या परोत्कर्षासहिष्णुत्वम् । मानः स्वस्मिन्पूज्यताबुद्धिः । क्रोधोऽभिज्वलनम् । माया कपटम्। असूया परगुणेषु दोषाविष्करणम्। रागो विषयेषु प्रीतिः। लोभस्तल्लिप्सा ॥ 6-10-15 संक्षेपो गुणानामिति शेषः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|